हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...

   Sanatana Dharm సనాతన ధర్మం
  Srimad Bhagavad Gita – श्रीमद्भगवद्गीता Valmiki Ramayanam in Sanskrit – वाल्मीकि रामायणम्

Yuddha Kanda Sarga 92 – युद्धकाण्ड द्विनवतितमः सर्गः (९२)


॥ रावणिशस्त्रहतचिकित्सा ॥

रुधिरक्लिन्नगात्रस्तु लक्ष्मणः शुभलक्षणः ।
बभूव हृष्टस्तं हत्वा शक्रजेतारमाहवे ॥ १ ॥

ततः स जाम्बवन्तं च हनुमन्तं च वीर्यवान् ।
सन्निहत्य महातेजास्तांश्च सर्वान्वनौकसः ॥ २ ॥

आजगाम ततस्तीव्रं यत्र सुग्रीवराघवौ ।
विभीषणमवष्टभ्य हनूमन्तं च लक्ष्मणः ॥ ३ ॥

ततो राममभिक्रम्य सौमित्रिरभिवाद्य च ।
तस्थौ भ्रातृसमीपस्थ इन्द्रस्येव बृहस्पतिः ॥ ४ ॥

निष्टनन्निव चागम्य राघवाय महात्मने ।
आचचक्षे तदा वीरो घोरमिन्द्रजितो वधम् ॥ ५ ॥

रावणेस्तु शिरश्छिन्नं लक्ष्मणेन महात्मना ।
न्यवेदयत रामाय तदा हृष्टो विभीषणः ॥ ६ ॥

श्रुत्वैतत्तु महावीर्यो लक्ष्मणेनेन्द्रजिद्वधम् ।
प्रहर्षमतुलं लेभे रामो वाक्यमुवाच ह ॥ ७ ॥

साधु लक्ष्मण तुष्टोऽस्मि कर्मणा सुकृतं कृतम् ।
रावणेर्हि विनाशेन जितमित्युपधारय ॥ ८ ॥

स तं शिरस्युपाघ्राय लक्ष्मणं लक्ष्मिवर्धनम् ।
लज्जमानं बलात्स्नेहादङ्कमारोप्य वीर्यवान् ॥ ९ ॥

उपवेश्य तमुत्सङ्गे परिष्वज्यावपीडितम् ।
भ्रातरं लक्ष्मणं स्निग्धं पुनःपुनरुदैक्षत ॥ १० ॥

शल्यसम्पीडितं शस्तं निःश्वसन्तं तु लक्ष्मणम् ।
रामस्तु दुःखसन्तप्तस्तदा निश्वसितो भृशम् ॥ ११ ॥

मूर्ध्नि चैनमुपाघ्राय भूयः संस्पृश्य च त्वरन् ।
उवाच लक्ष्मणं वाक्यमाश्वस्य पुरुषर्षभः ॥ १२ ॥

कृतं परमकल्याणं कर्म दुष्करकर्मणा ।
अद्य मन्ये हते पुत्रे रावणं निहतं युधि ॥ १३ ॥

अद्याहं विजयी शत्रौ हते तस्मिन् दुरात्मनि ।
रावणस्य नृशंसस्य दिष्ट्या वीर त्वया रणे ॥ १४ ॥

छिन्नो हि दक्षिणो बाहुः स हि तस्य व्यपाश्रयः ।
विभीषणहनूमद्भ्यां कृतं कर्म महद्रणे ॥ १५ ॥

अहोरात्रैस्त्रिभिर्वीरः कथञ्चिद्विनिपातितः ।
निरमित्रः कृतोऽस्म्यद्य निर्यास्यति हि रावणः ॥ १६ ॥

बलव्यूहेन महता श्रुत्वा पुत्रं निपातितम् ।
तं पुत्रवधसन्तप्तं निर्यान्तं राक्षसाधिपम् ॥ १७ ॥

बलेनावृत्य महता निहनिष्यामि दुर्जयम् ।
त्वया लक्ष्मण नाथेन सीता च पृथिवी च मे ॥ १८ ॥

न दुष्प्रापा हते त्वद्य शक्रजेतरि चाहवे ।
स तं भ्रातरमाश्वास्य परिष्वज्य च राघवः ॥ १९ ॥

रामः सुषेणं मुदितः समाभाष्येदमब्रवीत् ।
सशल्योऽयं महाप्राज्ञ सौमित्रिर्मित्रवत्सलः ॥ २० ॥

यथा भवति सुस्वस्थस्तथा त्वं समुपाचर ।
विशल्यः क्रियतां क्षिप्रं सौमित्रिः सविभीषणः ॥ २१ ॥

ऋक्षवानरसैन्यानां शूराणां द्रुमयोधिनाम् ।
ये चाप्यन्येऽत्र युध्यन्ति सशल्या व्रणिनस्तथा ॥ २२ ॥

तेऽपि सर्वे प्रयत्नेन क्रियन्तां सुखिनस्त्वया ।
एवमुक्तस्तु रामेण महात्मा हरियूथपः ॥ २३ ॥

लक्ष्मणाय ददौ नस्तः सुषेणः परमौषधिम् ।
स तस्या गन्धमाघ्राय विशल्यः समपद्यत ॥ २४ ॥

तथा निर्वेदनश्चैव संरूढव्रण एव च ।
विभीषणमुखानां च सुहृदां राघवाज्ञया ॥ २५ ॥

सर्ववानरमुख्यानां चिकित्सां स तदाऽकरोत् ।
ततः प्रकृतिमापन्नो हृतशल्यो गतव्यथः ।
सौमित्रिर्मुदितस्तत्र क्षणेन विगतज्वरः ॥ २६ ॥

तथैव रामः प्लवगाधिपस्तदा
विभीषणश्चर्क्षपतिश्च जाम्बवान् ।
अवेक्ष्य सौमित्रिमरोगमुत्थितं
मुदा ससैन्याः सुचिरं जहर्षिरे ॥ २७ ॥

अपूजयत्कर्म स लक्ष्मणस्य
सुदुष्करं दाशरथिर्महात्मा ।
हृष्टा बभूवुर्युधि यूथपेन्द्रा
निपातितं शक्रजितं निशम्य ॥ २८ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्विनवतितमः सर्गः ॥ ९२ ॥


www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.